अपराजितास्तोत्रम्
अपराजितास्तोत्रम् श्रीत्रैलोक्यविजया अपराजितास्तोत्रम् ।ॐ नमोऽपराजितायै ।ॐ अस्या वैष्णव्याः पराया अजिताया महाविद्यायाःवामदेव-बृहस्पति-मार्कण्डेया ऋषयः ।गायत्र्युष्णिगनुष्टुब्बृहती छन्दांसि ।लक्ष्मीनृसिंहो देवता ।ॐ क्लीं श्रीं ह्रीं बीजम् ।हुं शक्तिः ।सकलकामनासिद्ध्यर्थं अपराजितविद्यामन्त्रपाठे विनियोगः ।ॐ नीलोत्पलदलश्यामां भुजङ्गाभरणान्विताम् ।शुद्धस्फटिकसङ्काशां चन्द्रकोटिनिभाननाम् ॥ १॥शङ्खचक्रधरां देवी वैष्ण्वीमपराजिताम्बालेन्दुशेखरां देवीं वरदाभयदायिनीम् ॥ २॥नमस्कृत्य पपाठैनां मार्कण्डेयो महातपाः ॥ ३॥मार्कण्डेय उवाच -शृणुष्वं मुनयः सर्वे सर्वकामार्थसिद्धिदाम् ।असिद्धसाधनीं देवीं वैष्णवीमपराजिताम् ॥ ४॥ॐ नमो…
